|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.75. अध्यायः 075
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति स्त्रीणां पुरुषचित्तप्रमथनाय शक्तिशेषदानपूर्वकं ब्रह्मणा सृष्टतया तद्रक्षणस्य दुष्करत्वकथनम्॥ 1 ॥ स्त्रीणां रक्षणस्य दुश्शकत्वे दृष्टान्ततया विपुलोपाख्यानकथनारम्भः॥ 2 ॥ गुरुणा स्वभार्वारक्षणं नियुक्तेन विपुलनाम्ना तदर्थं योगेन तच्छरीरप्रवेशः॥ 3 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
एवमेतन्महाबाहो नात्र मिथ्याऽस्ति किञ्चन।
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप॥ 13-75-1(84404)
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्।
यथा रक्षा कृता पूर्वं विपुलेन महात्मना॥ 13-75-2(84405)
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ॥
यदर्थं तच्च ते तात प्रवक्ष्यामि नराधिप॥ 13-75-3(84406)
न हि स्त्रीभ्यः परं पुत्र पापीयः किञ्चिदस्ति वै।
अग्निर्हिः प्रमदा दीप्तो मायाश्च मयजा विभो।
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः॥ 13-75-4(84407)
प्रजा इमा महाबाहो धार्मिक्य इति नः श्रुतम्।
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम्॥ 13-75-5(84408)
अथाभ्यागच्छन्देवास्ते पितामहमरिंदम।
निवेद्य मानसं चापि तूष्णीमासन्नधोमुखाः॥ 13-75-6(84409)
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः।
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः॥ 13-75-7(84410)
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन्।
असाध्व्यस्तु समुत्पन्नाः कृत्याः सर्गात्प्रजापतेः 13-75-8(84411)
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः।
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरान्सदा॥ 13-75-9(84412)
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः।
असज्जन्त प्रजाः सर्वाः कामक्रोधवशङ्गताः॥ 13-75-10(84413)
`द्विजानां च गुरूणां च महागुरुनृपादिनाम्।
क्षणस्त्रीसङ्गकामोत्था यातनाहो निरन्तरा॥ 13-75-11(84414)
अरक्तमनसां नित्यं ब्रह्मचर्यामलात्मनाम्।
तपोदमार्चनाध्यानयुक्तानां शुद्धिरुत्तमा॥' 13-75-12(84415)
न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः।
निरिन्द्रिया ह्यशास्त्राश्च स्त्रियोऽनृतमिति श्रुतिः॥ 13-75-13(84416)
शय्यासनमलङ्कारमन्नपानमनार्यताम्।
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः॥ 13-75-14(84417)
न तासां रक्षणं शक्यं कर्तुं पुंसां कथञ्चन।
अपि विस्वकृता तात कुतस्तु पुरुषैरिह॥ 13-75-15(84418)
वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा।
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः॥ 13-75-16(84419)
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम्।
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियाः॥ 13-75-17(84420)
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः।
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि॥ 13-75-18(84421)
तस्या रूपेण सम्मत्ता देवगन्धर्वदानवाः।
विशेषेण तु राजेन्द्र वृत्रहा पाकशासनः॥ 13-75-19(84422)
नारीणां चरितज्ञश्च देवशर्मा महामतिः।
यथाशक्ति यथोस्साहं भार्यां तामभ्यरक्षत॥ 13-75-20(84423)
पुरंदरं च जानंश्च परस्त्रीकामचारिणम्।
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह॥ 13-75-21(84424)
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा।
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत्॥ 13-75-22(84425)
रक्षाविधानं मनसा स सञ्चिन्त्य महातपाः।
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम्॥ 13-75-23(84426)
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः।
यतः प्रार्थयते नित्यं तां रक्षस्व यथाबलम्॥ 13-75-24(84427)
अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम्।
स हि रूपाणि कुरुते विविधानि भृगूत्तम॥ 13-75-25(84428)
भीष्म उवाच। 13-75-26x(7017)
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः।
सदैवोग्रतपा राजन्नग्र्यर्कसदृशद्युतिः॥ 13-75-26(84429)
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत।
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम्॥ 13-75-27(84430)
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने।
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि॥ 13-75-28(84431)
भीष्म उवाच। 13-75-29x(7018)
ततः स भगवांस्तस्मै विपुलाय महात्मने।
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत॥ 13-75-29(84432)
बहुमायः स विप्रर्षे बलहा पाकशासनः।
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः॥ 13-75-30(84433)
किरीटी वज्रधृग्धन्वी मुकुटी बद्धकुण्डलः।
भवत्यथ मुहूर्तेनि चण्डालसमदर्शनः॥ 13-75-31(84434)
शिखी जटी चीरवासाः पुनर्भवति पुत्रक।
बृहच्छरीरश्च पनश्चीरवासाः पुनः कृशः॥ 13-75-32(84435)
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः।
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च॥ 13-75-33(84436)
`प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च।'
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च॥ 13-75-34(84437)
प्रतिलोमोऽनुलोमश्च भवत्यथ शतक्रतुः।
शुकवायसरूपी च हंसकोकिलरूपवान्॥ 13-75-35(84438)
सिंहव्याघ्रगजानां च रूपं धारयते पुनः।
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च॥ 13-75-36(84439)
अकृशो मायुभग्राङ्गः शकुनिर्विकृतस्तथा।
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः॥ 13-75-37(84440)
मक्षिकामशकादीनां वपुर्धारयतेऽपि च।
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित्॥ 13-75-38(84441)
अपि विश्वकृता तात येन सृष्टमिदं जगत्।
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा॥ 13-75-39(84442)
वायुभूतश्च स पुनर्देवराजो भवत्युतः।
एवंरूपाणि सततं कुरुते पाकशासनः।
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम्॥ 13-75-40(84443)
यथा रुचिं नवलिहेद्देवेन्द्रो भृगुसत्तम।
क्रतावुपहिते न्यस्तं हविः श्वेव दुरात्मवान्॥ 13-75-41(84444)
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा।
देवशर्मा महाभागस्ततो भरतसत्तम॥ 13-75-42(84445)
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तामुपेयिवान्।
रक्षां च परमां चक्रे देवराजान्महाबलात्॥ 13-75-43(84446)
किन्नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे।
मायावी हि सुरेन्द्रोसौ दुर्धर्षश्चापि वीर्यवान्॥ 13-75-44(84447)
नीपिधायाश्रमं शक्यो रक्षितुं पाकशासनः।
उटजं वा तथा ह्यस्य नानाविधसरूपता॥ 13-75-45(84448)
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत्।
तस्मादिमां सम्प्रविश्य रुचिं स्थास्येहमद्य वै॥ 13-75-46(84449)
अथवा पौरुषेणेयं न शक्या रक्षितुं मया।
बहुरूपो हि भगवाञ्छ्रूयते पाकशासनः॥ 13-75-47(84450)
सोहं योगबलादेनां रक्षिष्ये पाकशासनात्।
गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्ये हि रक्षितुम्॥ 13-75-48(84451)
यद्युच्छिष्टामिमां पत्नीमद्य पश्यति मे गुरुः।
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः॥ 13-75-49(84452)
न चेयं रक्षितुं शक्या यथाऽन्या प्रमदा नृभिः।
मायावी हि सुरेन्द्रोसावहो प्राप्तोस्मि संशयम्॥ 13-75-50(84453)
अवश्यं करणीयं हि गुरोरिह हि शासनम्।
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया॥ 13-75-51(84454)
योगेनाथ प्रविश्येदं गुरुपत्न्याः कलेवरम्।
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः॥ 13-75-52(84455)
एवमेव शरीरे ऽस्या निवत्स्यामि समाहितः।
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम॥ 13-75-53(84456)
यथाहि शून्यां पथिकः सभामध्यावसेत्यथि।
तथाऽद्यावासयिष्यामि गुरुपत्न्याः कलेवरम्।
एवमेव शरीरे ऽस्य निवत्स्यामि समाहितः॥ 13-75-54(84457)
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः।
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च॥ 13-75-55(84458)
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः।
अन्वतिष्ठत्परं यत्नं यथा तच्छृणु पार्थिव॥ 13-75-56(84459)
गुरुपत्नीं समासीनो विपुलः स महातपाः।
उपासीनामनिन्द्याङ्गी कथार्थैः समलोभयत्॥ 13-75-57(84460)
नेत्राभ्यां नेत्रयोरस्या रश्मिं संयोज्य रश्मिभिः।
विवेश विपुलः कायमाकाशं पवनो यथा॥ 13-75-58(84461)
लक्षणं लक्षणेनैव वदनं वदनेन च।
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः॥ 13-75-59(84462)
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम्।
उवास रक्षणे युक्तो न च सा तमबुध्यत॥ 13-75-60(84463)
13-75-61(84464)
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः।
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-75-4 अस्ति हि प्रमदा दीप्तेति ट.थ. पाठः॥ 7-75-13 दरिद्राश्च ह्यमन्त्रश्च स्त्रियो नित्यमिति श्रुतिरिति ध.पाठः॥ 7-75-51 अशक्यकरणीयं हीति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|